|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.252. अध्यायः 252
Mahabharata - Vana Parva - Chapter Topics
शकुन्यादिभिर्बहुधा परिसान्त्वनेपि दुर्योधनेन प्रायोपवेशानिश्चयादनिवर्तने पातालवासिनिर्दैत्यदानवैस्तदानयनाय जपहोमादिना कृत्यासर्जनम् ॥ 1 ॥ तथा कृत्यया प्रायोपविष्टस् दुर्योधनस्य पातालंप्रत्यानयनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-252-0x(2618)(25674)
प्रायोपविष्टं राजानं दुर्योधनममर्षणम्।
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ 3-252-1(25675)
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया।
मया हृतां श्रियं स्फीतां तां मोहादपहासि किम् ॥ 3-252-2(25676)
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि।
अद्य वाऽप्यवगन्छामि न वृद्धाः सेवितास्त्वया ॥ 3-252-3(25677)
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति।
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ 3-252-4(25678)
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम्।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः ॥ 3-252-5(25679)
सत्कृतस्य हि ते शोको विपरीते कथं भवेत्।
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ 3-252-6(25680)
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः।
तत्र शोचसि राजेन्द्रविपरीतमिदं तव ॥ 3-252-7(25681)
प्रसीदमा त्यजात्मानं तुष्टश्च सुकृतं स्मर।
कप्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि।
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ॥ 3-252-8(25682)
सौभ्रात्रं पाण्डवैः कृत्वा समवस्ताप्य चैव तान्।
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि ॥ 3-252-9(25683)
वैशम्पायन उवाच। 3-252-10x(2619)
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च।
पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात् ॥ 3-252-10(25684)
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम्।
उत्थाप्य संपरिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि ॥ 3-252-11(25685)
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ।
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा।
व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम् ॥ 3-252-12(25686)
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत्।
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ॥ 3-252-13(25687)
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत।
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने ॥ 3-252-14(25688)
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम।
त एवमुक्ताः प्रत्यूच् राजानमरिमर्दनम् ॥ 3-252-15(25689)
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत।
कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ 3-252-16(25690)
वैशम्पायन उवाच। 3-252-17x(2620)
स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च।
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ 3-252-17(25691)
दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः।
संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः ॥ 3-252-18(25692)
कुशचीराम्बरधरः परं नियममास्थितः।
वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया ॥ 3-252-19(25693)
मनसोपचितिं कृत्वा निरस् च बहिःक्रियाः।
`तस्थौप्रायोपवेशेऽथमतिं कृत्वा सुनिश्चयाम्' ॥ 3-252-20(25694)
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः।
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ॥ 3-252-21(25695)
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै।
आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् ॥ 3-252-22(25696)
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः।
अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः।
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ 3-252-23(25697)
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः।
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ 3-252-24(25698)
`अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः' ॥ 3-252-25(25699)
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता।
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ 3-252-26(25700)
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना।
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ 3-252-27(25701)
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा।
निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ 3-252-28(25702)
समादाय च राजानं प्रविवेश रसातलम्।
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत् ॥ 3-252-29(25703)
तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः।
प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः ॥ 3-252-30(25704)
`दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा'।
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ 3-252-31(25705)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-252-4 पात्रं मृत्पात्रम्। आममपक्वम् ॥ 3-252-5 क्लीवं सामर्थ्यहीनम्। दीर्घसूत्रं चिरकारिणम्। प्रमादिनमनवहितम्। व्यसनात् द्यूतपानमृगयादिरूपात्। विषयैः स्त्र्यादिभिराक्रान्तम्। त्वं तु तेषां मध्ये प्रमादी विषयाक्रान्तश्चेति भावः ॥ 3-252-6 पार्थैः कृतं मा नाशयेति संबन्धः ॥ 3-252-8 आत्मानं शरीरं मा त्यज ॥ 3-252-10 विकृतं म्लानम् ॥ 3-252-12 निर्वेदं जीविते वैराग्यम्। नैराश्यं राज्यलाभे इति शेषः ॥ 3-252-13 समन्युः दैन्यवान्। धर्मेण धनेन सौख्येन वा न मम कार्यमिति संबन्धः। धर्मधनाभ्यां यत्सौख्यं तेन वा ॥ 3-252-14 मा विहन्यत मम संकल्पं मा नाशयत ॥ 3-252-19 वाग्यतो मौनी ॥ 3-252-20 मनसा उप समीपे चितिं दाहार्थं काष्ठसंचयं कृत्वासंकल्प्य अवश्यं मर्तव्यमिति निश्चित्येत्यर्थः। बहिःक्रियाः स्नानपानाद्याः ॥ 3-252-22 वैतानसंभवमग्निविस्तारसाध्यं नवकुण्ड्यादिविधानम् ॥ 3-252-23 उपनिषदि आरण्यके प्रोक्ताः औपनिषदाः। समवर्तयन् संप्रावर्तयन् दैतेयदानवा इतिपूर्वेण संबन्धः ॥ 3-252-26 कृत्या आज्ञाकरी देवता ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|